This page has been fully proofread once and needs a second look.

ध्वन्यालोकपारिभाषिकपदकोशः
 
किंशुकव्यपदेशेन तरुमारुह्य सर्वतः ।
 

दग्धादग्धमरण्यान्यः पश्यतीव विभवसुः ॥
 

इत्युदाहृतं तेन ।
 

 
उत्प्रेक्षाध्वनिः
 

चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः।

मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः॥
 

अत्र हि मधौ मलयमारुतस्य पथिकमूर्च्छाकारित्वं

मन्मथोन्माथदायित्वेनैव । तत्तु चन्दनासक्तभुजगनिः श्वासानिल-

मूर्च्छितत्वेनोत्प्रेक्षितमित्युत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामर्थ्यादनु-

 

रणनरूपा लक्ष्यते ।
 

 
उत्प्रेक्षितवृत्तम्
 

कविकल्पितमितिवृत्त्म्।
 

 
उत्साहः
 

वीररसस्य स्थायीभावः ।
 

 
उपचारः
 

गौणः/अप्रधानः ।
 
35
 

 
उपनागरिका
 

अनुप्रासानामेव दीप्त-मसृण-मध्यम-वर्णनीयोपयोगितया

परूषत्व-ललितत्व-मध्यमत्व-स्वरूपविवेचनाय वर्गत्रयसम्पादनार्थं