2023-06-22 06:41:32 by jayusudindra
This page has been fully proofread once and needs a second look.
ध्वन्यालोकपारिभाषिकपदकोशः
पूर्ववृत्तथाकयुक्तमितिहासं प्रचक्षते ॥
इति इतिहासशब्दस्य पारम्परिकं निर्वचनम् । भारतरामायणे
इतिहासशब्देन गृह्येते ।
उ
उ
उत्तमप्रकृत्याश्रयः
काव्यगतानि पात्राणि "प्रकृति 'शब्देन व्यवह्रियन्ते। ताः
प्रकृतयः उत्तम-मध्यम-अधमभेदेन तिस्रो भवन्ति । तासु
नायिकानायकादयः, महर्षयः, महाराजादयोऽपि सद्वंशसमुत्पन्नाः
उत्तमप्रकृतयः इति कथ्यन्ते । ताः आश्रित्य विद्यमानो विषयः
उत्तमप्रकृत्याश्रयः भवति ।
उत्पाद्यवस्तु
वस्तु अथवा इतिवृत्तं द्विविधम् । प्रख्यातं, कविकल्पितं
चेति। इतिहासोद्भवमितिवृत्तं प्रख्यातमिति कथ्यते । कविकल्पितं
तु उत्पाद्यवस्त्विति शब्द्यते ।
उत्प्रेक्षा
अविवक्षितसामान्या किञ्चिच्चोपमया सह ।
अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता॥
इति भामहाचार्यवचनम् ।