This page has not been fully proofread.

32
 
"आदिकवी चतुरास्यौ कमलजवल्मीकजौ वन्दे ।
लोकश्लोकविधात्रोः ययोर्भिदा लेशमात्रेण ॥"
इत्यादिकविबिरुदभाजः वाल्मीकिमहर्षेः स्तुतिपराणि कविलोक-
प्रसिद्धानि वचांसि ।
 
आधार:
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
अधिकरणम्, आश्रयो वा । व्याकरणशास्त्रानुसारं
औपश्लेषिक-वैषयिक-आभिव्यापकभेदेन अधिकरणम् त्रिविधम् ।
 
आधाराधेयभावः
 
आधारश्च आधेयश्च तयोर्भावः आधाराधेयभावः ।
 
एकस्य यदपेक्षया आधारत्वम् अपरस्य तदपेक्षया यत्र आधेयत्वं
"घटभूतलयोः" इव विद्यमाने तादृशे सम्बन्धभेदे आधाराधेयभावः
विद्यते ।
 
आधिकारिकम्
 
-
 
दृश्यश्रव्यकाव्येषु प्रधानम् इतिवृत्तम् आधिकारिकमुच्यते ।
अधिकारः फलस्वाम्यम् अधिकारी च तत्प्रभुः ।
तन्निर्वृत्तफलव्यापि वृत्तं स्यादाधिकारिकम् ॥
 
इति धनञ्जयवचनम् ।
 
आधेयः
 
आधारे स्थापनीयः विषयः ।