This page has been fully proofread once and needs a second look.

ध्वन्यालोकपारिभाषिकपदकोशः
 
कथांशानं व्यवच्छेद आश्वास इति बध्यते ।
 

आर्यावक्त्रापरवक्त्राणां छन्दसा येन केनचित् ॥

अन्योपदेशेन श्वासः मुखे भाव्यर्थसूचनम् ॥ -

इति साहित्यदर्पणकारमतम् ।
 
आत्मा
 

 
आत्मा
तं विना काव्यत्वस्यैवास्वीकाराज्जीवनाधायकत्वेन प्रधानम्
 

आत्मा । - दीधितिः ।
 

तत्त्वम् अथवा सारत्वम् काव्यस्य । काव्यस्य जीवातुभूतः
 

विषयः ।
 

 
आदिकविः
 
31
 

आद्यः कविः । ब्रह्मा, वाल्मीकिश्च ।
 

 
१) ब्रह्मा
 

हिरण्यगर्भे तस्य प्रथमोत्पन्नत्वात् स्वयं प्रतिभातवेदत्वाच्च

चतुर्मुखः आदिकविरित्युच्यते । "तेने ब्रह्म हृदा य आदिकवये"

इति भागवतवचनमपि इदम् प्रमाणयति ।
 

२) महर्षि वाल्मीकिः
 

''ओम्कार इव वर्णानां कवीनां प्रथमो मुनिः" इति,

"जाते जगति वाल्मीकौ कविरित्यभिधाऽऽभवत् ।' इति

"मधुमयभणितीनां मार्गदर्शी महर्षिः" इति,