This page has been fully proofread once and needs a second look.

ध्वन्यालोकपारिभाषिकपदकोशः
 
च कथ्यमानः आसीत्। सा च त्रिविधा । असमासा (समासवर्जिता),

मध्यमसमासा (नातिदीर्घसमासवती), दीर्घसमासा चेति । अत्र

असमासा सघटना समासवर्जिता भवति । प्रायः शृङ्गारे,

करुणे च शोभते ।
 
30
 

 

आक्षेपः
 

अयं कश्चनार्थालङ्कारविशेषः ।

आक्षेपस्स्व्यमुक्तस्य प्रतिषेधो विचारणात् ।

चन्द्र सन्दर्शयात्मानमथवास्ति प्रियामुखम् ॥

इति निर्वचनोदाहरणे चन्द्रालोके लभ्येते।
 

 
आक्षेपध्वनिः
 

 

स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् ।

योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥

अत्रातिशयोक्त्या हयग्रीवगुणानमवर्णनीयताप्रतिपादन-

रूपस्यासाधारणतद्विशेषप्रकाशनपरस्याक्षेपस्य प्रकाशनम् ।
 

 
आक्षिप्तः
 

शब्देन नाभिहितः परन्तु श्ब्दशक्त्या व्यक्तः आक्षिप्तः इत्युच्यते ।
 

 
आख्यायिका
 

आख्यायिका कथावत् स्यात् कवेर्वंशादिकीर्तनम् ।

अस्यामन्यकवीनां च वृत्तं गद्यं क्वचित् क्वचित् ॥