2023-06-22 06:34:17 by jayusudindra
This page has been fully proofread once and needs a second look.
अन्यतमः। उक्तस्य लक्षणस्य सर्वथा सर्वत्र च लक्ष्याभावः
असम्भवः ।
29
असंलक्ष्यक्रमोद्योतः/असंलक्ष्यक्रमोद्योतध्वनिः/असंलक्ष्य-
क्रमध्वनिः / असंलक्ष्यक्रमव्यङ्ग्यध्वनिः/अस्फुटप्रतीयमानः
अयं विवक्षितान्यपरवाच्यध्वनेः (अर्थात् अभिधामूलध्वनेः)
द्वयॊः प्रधानप्रकारयोः अन्यतरः । प्रायः अभिधामूलध्वनौ क्रमेण
अभिधेयार्थस्य प्रतीत्यनन्तरं व्यङ्ग्यार्थस्य प्रतीतिर्भवति । यदि
सः क्रमः साक्षदनुभवगोचरो भवति सः संलक्षय्क्रमध्वनिर्भवति ।
तद्व्यतिरिक्तमेव (यस्मिन् व्यङ्ग्यार्थप्रतीतौ विद्यमानक्रमः न
परिलक्ष्यते) स च अलक्ष्यक्रमध्वनिः अथवा असंलक्ष्यक्रमध्वनिरिति
कथ्यते । अयमेव रसादिध्वनिरित्यपि व्यवह्रियते । अत्र 'रसादि
रद्धेन रसाः, भावाः, रसाभासाः, भवाभासाः, भावशान्तिः,
गावोदयः, भवसन्धिः, भावशबलता च प्रमुखतया गृह्यन्ते। अस्मिन्
नौ वाच्यार्थव्यङ्ग्यार्थयोर्मध्ये विद्यमानः अतिसूक्ष्मस्य क्रमग्रहणे
सूचीपत्रन्यायेन अर्थात् सूचीमुखेन कमलपत्रशतभेदने यावान्
कालः, यावल्लाघवं चानुभूयते तावान् कालः, तावल्लाघवं
मानुभूयते ।
असमासा सङ्घटना
आनन्दवर्धनात्पूर्वाचार्यैः सङ्घटना रीतिरिति मार्ग इति