This page has not been fully proofread.

28
 
[ विषमय इव केषामपि केषामपि प्रयात्यमृतनिर्माणः ।
केषामपि विषामृतमयः केषाम्यविषामृतः कालः ॥ इति च्छाया ]
अत्र हि वाक्ये विषामृतशब्दाभ्यां दुःखसुखरूपसङ्क्रमित-
वाच्याभ्यां व्यवहार इत्यर्थान्तरसङ्क्रमितवाच्यस्य व्यञ्जकत्वम् ।
अव्याप्तिः
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
लक्ष्यभूते विषये लक्षणस्य अप्रवृत्तिरेव अव्याप्तिरिति
 
कथ्यते ।
 
अव्युत्पत्तिकृतदोषः
 
अव्युत्पत्तिः - अनुप्रासादिनिबन्धनतात्पर्यप्रवृत्तिः।(इति
लोचनकारः) । तद्वशात्कृतो दोषः अव्युत्पत्तिकृतदोषः ।
 
अव्युत्पत्तेः - अनैपुण्यादनुप्रासादिनिबन्धनैकरसिकत्वाद्वा
( दीधितिकारः) - तद्वाशात्कृतो दोषः ।
 
अशक्तिकृतदोषः
 
अशक्तिः - वृत्तपूरणाद्यसामर्थ्यम् । (इति लोचनकारः) ।
तेन कृतो दोषः। अशक्तिकृतो दोषः।
 
अशक्तेः वृत्तपरिपूरणसामर्थ्यविरहात् (इति दीधितिकारः)
कृतो दोषः अशक्तिकृतो दोषः ।
 
असम्भवः
 
सम्भवस्य अभावः । सम्भवादन्यो वा ।