This page has been fully proofread once and needs a second look.

अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये
 
प्रभेदे वाक्यप्रकाशता
 

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥

अनेन हि वाक्येन न निशार्थो न च जागरणार्थ:

कश्चिद्विवक्षितः । किं तर्हि ? तत्त्वज्ञानावहितत्वमतत्त्वपराङ्मुखत्वं

च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्य व्यञ्जकत्वम् ।

 
अविवक्षितवाच्यस्यार्थान्तरसङ्क्रमितवाच्ये प्रभेदे पदप्रकाशता

रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्। अत्र

रामेणेत्येतत्पदं साहसैकरसत्वादिव्यङ्ग्याभिसङ्क्रमितवाच्यं

व्यञ्जकम्। यथा वा--

एमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिम्बम् ।

परमत्थविआरे उण चन्दो चन्दो विअ वराओ ॥
 

[ एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् ।

परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः ॥ छाया]
 

अत्र द्वितीयश्चन्द्रशब्दोऽर्थान्तरसङ्क्रमितवाच्यः।
 

 
अविवक्षितवाच्यस्यार्थान्तरसङ्क्रमितवाच्यस्य वाक्यप्रकाशता

विसमइओ च्चिअ काण वि काण वि वोलेइ अमिअणिम्माओ ।

काण वि विसामिअमओ काण वि अविसामओ कालो ॥