This page has been fully proofread once and needs a second look.

26
 
अविवक्षितवाच्यध्वनिः
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

अविवक्षितवाच्यध्वनिः, विवक्षितान्यपरवाच्यध्वनिरिति द्वौ

प्रमुखौ ध्वनिभेदौ स्तः । यस्मिन् ध्वनिप्रकारे वाच्यार्थः विवक्षितो

न भवति सः अविवक्षितवाच्यध्वनिः भवति। (अयमेव

लक्षणामूलध्वनिरित्युच्यते ।) । "वाच्येऽर्थे तु ध्वनौ वाच्यशब्देन

स्वात्मा तेन विवक्षितोऽप्रधानीकृतः स्वात्मा येनेत्यविवक्षितवाच्यः

व्यञ्जकोऽर्थः । यदि वा कर्मधारयेणापि अविवक्षितश्चासौ

वाच्यश्चेति।" इति लोचनकारोक्तिः । अविवक्षितवाच्यध्वनौ

अर्थान्तरसंक्रमितवाच्यध्वनिः, अत्यन्ततिरस्कृतवाच्यध्वनिरिति

द्वौ प्रधानभेदौ स्तः ।
 

 
अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे पदप्रकाशता

यथा महर्षेर्व्यासस्य
 

सप्तैताः समिधः श्रियः
 

यथा वा कालिदासस्य-

कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् ।
 

यथा वा
 
-
 

किमिव हि मधुराणां मण्डनं नाकृतीनाम् एतेषूदाहरणेषु
 

'समिध' इति 'सन्नद्ध' इति 'मधुराणामिति च पादनि

व्यञ्जकत्वाभिप्रयेणैव कृतानि ।