This page has not been fully proofread.

ध्वन्यालोकपारिभाषिकपदकोशः
 
द्विधा निष्पन्नोऽयं शब्दः दृश्यते । अलङ्कृतिरलङ्कारः इति
शास्त्रकारवचनम् । भूषणसाधने अलङ्कारशास्त्रोक्ते उपमाद्यल-
ङ्कारार्थे च अयं प्रयुज्यते ।
 
अवमर्शः
 
अवान्तरभेदः
 
अवमर्शनमवमर्शः
 
पर्यालोचनम् । तच्च क्रोधेन वा
 
व्यसनाद्वा विलोभनेन वा 'भवितव्यमनेनार्थेन' इत्यवधारितैकान्त-
फलप्राप्त्यवसायात्मा गर्भसन्ध्युद्भिन्नबीजार्थसंबन्धो विमर्शोऽ-
वमर्शः । पञ्चनाटकसन्धिषु चतुर्थोऽयम् । प्रकर्याख्यया अर्थप्रकृत्या
नियताप्त्याख्यायाः कार्यावस्थायाः योगेन सन्धिरयमुत्पन्नो भवति ।
धनञ्जयेन एतस्मिन् विषये
 
क्रोधेनावमृशेद्यत्र व्यसनाद्वा विलोभनात् ।
 
गर्भनिर्भन्नबीजार्थः सोऽवमर्श इति स्मृतः ॥ इति निरवोचि ।
 
अविनाभावसम्बन्धः
 
-
 
प्रधानान्तःपाती भेदः ।
 
-
 
जात्या व्यक्तिराक्षिप्यते ।
 
अविरोधिता
 
25
 
व्यापकं विना व्याप्तेः न भावः । यथा - व्यक्त्यविनाभावात्तु
 
विरोधितायाः अभावः ।