This page has been fully proofread once and needs a second look.

24
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
गुणालङ्कारहानोपादानाभ्याम्"
 
इति वामनाचार्यस्य मतम्
 

ग्राह्यमत्र। अतः भावव्युत्पत्त्या अयं शब्दः दोषापगमगुणालङ्कार-

संवलनकृतसौन्दर्यवाचको भवति । एतस्मिन् प्रसङ्गे साहित्य-

दर्पणकारः -
 

शब्दार्थयोरस्थिरा धर्माः शोभातिशायिनः ।

रसादीनुपकुर्वन्तेऽलङ्काराः तेऽङ्गदादिवत् ॥ इति जगाद ।

अस्मिन्नेव सन्दर्भे वक्रोक्तिजीवितवृत्तिगतविषयोऽपि

· स्मरणीयः ।''अलङ्कारशब्दः शरीरस्य शोभातिशयकारित्वा-

न्मुख्यतया कटकादिषु वर्तते । तत्कारित्वसामान्यादुपचारादुप-

मादिषु । तद्वदेव च तत्सदृशेषु गुणादिषु, तथैव तदभिधायिनि

ग्रन्थे । शब्दार्थयोरेकयोगक्षेमत्वादैक्येन व्यवहारः, यथा गौरिति

शब्दः गौरित्यर्थः । तदयमर्थः । ग्रन्थस्यालंकार इत्यभिधानम् ।

उपमादिप्रमेयजातमभिधेयम्, उक्तरूपवैचित्र्यसिद्धिः

प्रयोजनमिति ।"
 

एते शब्दालङ्काराः, अर्थालङ्काराश्चेति द्विविधाः ।

यमक अनुप्रासादयः शब्दालङ्काराः । उपमा रूपक उत्प्रेक्षा-

अतिशयोक्त्यादयः अर्थालङ्काराश्च काव्यलोकप्रसिद्धाः ।

 
अलङ्कृतिः
 

अलम्+कृ-भावे क्तिन्। भूषणे करणे क्तिन् - इति
 
-
 
-