2023-06-19 14:42:04 by ambuda-bot
This page has not been fully proofread.
ध्वन्यालोकपारिभाषिकपदकोशः
23
तद्व्यतिरिक्तमेव ( यस्मिन् व्यङ्ग्यार्थप्रतीतौ विद्यमानक्रमः न
परिलक्ष्यते) स च अलक्ष्यक्रमध्वनिः अथवा असंलक्ष्यक्रमध्वनिरिति
कथ्यते । अयमेव रसादिध्वनिरित्यपि व्यवह्रियते । अतर
'रसादि' शब्देन रसाः, भावाः, रसाभासाः, भवाभासाः, भावशान्तिः,
भावोदयः, भवसन्धिः, भावशबलता च प्रमुखतया गृह्यन्ते । अस्मिन्
ध्वनौ वाच्यार्थव्यङ्ग्यार्थयोर्मध्ये विद्यमानः अतिसूक्ष्मस्य क्रमग्रहणे
सूचीपत्रन्यायेन अर्थात् सूचीमुखेन कमलपत्रशतभेदने यावान्
कालः, यावल्लाघवं चानुभूयते तावान् कालः, तावल्लाघवं
चानुभूयते ।
अलङ्कारः
अलम् + कृ-भावे घञ्; भूषायाम् । करणे घञ्; इति द्विधा
निष्पन्नोऽयं शब्दः दृश्यते । अलङ्क्रियतेऽनेनेति करणव्युत्पत्ति-
जन्यः अयं हार-कटक-नूपुरादयो यथा शरीरमलङ्कुर्वन्ति,
सौन्दर्या तशयं सम्पादयन्ति च तथा उपमारूपकयमकादयः
काव्यशरीरमलङ्कृत्य काव्यशोभातिशयहेतवो भवन्ति इति
कारणेन उपमारूपकादिषु प्रवर्तते । तदर्थमेव प्रसिद्धालङ्कारिकैः
"काव्यशोभाकर्तारो धर्माः गुणाः तदतिशयहेतवस्त्वलङ्काराः"
इति कथने तेषां करणार्थनिष्पत्तिं मनसि निधायैव अगादि ।
अथ भावार्थविचारे शब्दोऽयं सौन्दर्यवाचको दृश्यते ।
'काव्यं ग्राह्यमलङ्कारात् । सौन्दर्यमलङ्कारः । दोषापगम-