2023-06-22 06:24:52 by jayusudindra
This page has been fully proofread once and needs a second look.
ध्वन्यालोकपारिभाषिकपदकोशः
सम्बन्धस्य यथा
अण्णत्त वच्च बालअ णअन्तिं किं मं पुलोएसि एअम्।
भो जाआभीरुआणं तइं विअ ण होइ ॥
[अन्यत्र व्रज बालक स्नान्तीं किं मां प्रलोकयस्येतत् ।
भो जायाभीरुकाणां तटमेव न भवति ॥ इति च्छाया]
कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत
एव । अवज्ञातिशये कः । समासानां च वृत्त्यौचित्येन विनियोजने।
अलक्ष्यक्रमध्वनौ सुबन्तव्यञ्जकत्वम्
एषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं
महाकवीनां प्रबन्धेषु प्रायेण दृश्यते ।
सुबन्तस्य व्यञ्जकत्वं यथा
तालैः शिञ्जद्वलयसुभगैः कान्तया नर्तितो मे।
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥
अलक्ष्यक्रमव्यङ्ग्यो ध्वनिः
अयं विवक्षितान्यपरवाच्यध्वनेः (अर्थात् अभिधामूलध्वनेः)
द्वयॊः प्रधानप्रकारयोः अन्यतरः । प्रायः अभिधामूलध्वनौ क्रमेण
अभिधेयार्थस्य प्रतीत्यनन्तरं व्यङ्ग्यार्थस्य प्रतीतिर्भवति । यदि
सः क्रमः साक्षदनुभवगोचरो भवति सः संलक्षय्क्रमध्वनिर्भवति ।