This page has been fully proofread once and needs a second look.

ध्वन्यालोकपारिभाषिकपदकोशः
 
21
 
स्वयमुत्प्रेक्षणीयाः । एतच्च सर्व पदवाक्यरचनाद्योतनोक्त्यैव

गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तम् ।
 

 
अलक्ष्यक्रमध्वनौ समासव्यञ्जकत्वम्
 

यदापि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव,

यदा तु कविः कविनिबद्धो वा वक्ता रसभावसमन्वितो रसश्च

प्रधानाश्रितत्वाद्ध्वन्यात्मभूतस्तदा नियमेनैव तत्रासमासामध्यम-

समासे एव सङ्घटने। करुणविप्रलम्भशृङ्गारयोस्त्वसमासवै

सङ्घटना। एवं च दीर्घसमासा सङ्घटना समासानामनेकप्रकार-

सम्भावनया कदाचिद्रसप्रतीति व्यवदधातीति तस्यां नात्यन्तमभि-

निवेशः शोभते। विशेषतोऽभिनेयार्थे काव्ये, तोऽन्यत्र च

विशेषतः करुणविप्रलम्भशृङ्गारयोः। तयोर्हि सुकुमारतरत्वात्स्व-

ल्पायामप्यस्वच्छतायां शब्दार्थयोः प्रीतितिर्मन्थरीभवति ।
 

रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्ममसमासा सङ्घटना

कदाचिद्धीरोद्धतनायकसम्बन्धव्यापाराश्रयेण दीर्घसमासापि वा

।दाक्षेपाविनाभाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि

•ात्यन्तं परिहार्या ।
 

सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी । स हि

सर्वससाधारणः सर्वसङ्घटनासाधारणश्चेत्युक्तम् । प्रसादातिक्रमे

हासमासापि सङ्घटना करुणविप्रलम्भशृङ्गारौ न व्यनक्ति।