This page has not been fully proofread.

20
 
अत्र तुशब्दः । निपातानां प्रसिद्धमपीह द्योतकत्वं
रसापेक्षयोक्तमिति द्रष्टव्यम् ।
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
यथा वा
 
ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च
प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते ।
 
-
 
हा धिक्कष्टमहो क्व यामि शरणं तेषां जनानां कृते
नीतानां प्रलयं शठेन विधिना साधुद्धिषः पुष्यता ॥
इत्यादौ ।
 
अलक्ष्यक्रमध्वनौ प्रकृत्यंशव्यञ्जकत्वम्
 
यथात्र प्रत्ययांशो व्यञ्जकस्तथा क्वचित्प्रकृत्यंशोऽपि
 
दृश्यते। यथा
 
तद्गेहं नतभित्ति मन्दिरमिदं लब्धावगाहं दिवः
सा धेनुर्जरती चरन्ति करिणामेता घनाभा घटाः ।
स क्षुद्रो मुसलध्वनिः कलमिदं सङ्गीतकं योषिता-
माश्चर्यं दिवसैर्द्विजोऽयमियतीं भूमिं समारोपितः ॥
 
अत्र श्लोके दिवसैरित्यस्मिन् पदे प्रकृत्यंशो द्योतकः ।
सर्वनाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके । अत्र च
सर्वनाम्नामेव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना क्वेत्यादिशब्द-
प्रयोगो न कृतः अनया दिशा सहृदयैरन्येऽपि व्यञ्जकविशेषाः