This page has not been fully proofread.

ध्वन्यालोकपारिभाषिकपदकोशः
 
मा पन्थं रुन्धीओ अवेहि बालअ अहोसि अहिरीओ।
अम्हेअ णिरिच्छाओ सुण्णवरं रक्खिदव्वं णो ॥
 
[मा पन्थानं रुदः अपेहि बालक अप्रौढ अहो असि अहीकः ।
वयं परतन्त्रा यतः शून्यगृहं मामकं रक्षणीयं वर्तते ॥
 
इति च्छाया]
 
अलक्ष्यक्रमध्वनौ तद्धितान्तव्यञ्जकत्वम्
 
19
 
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥
 
अत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं
दृश्यते। 'तत्राप्यसौ तापस' इत्यत्र तद्धितनिपातयोः। 'धिग्धिक्
शक्रजितम्' इत्यादौ श्लोकार्थे कृत्तद्धितसमासोपसर्गाणाम् ।
 
अलक्ष्यक्रमध्वनौ निपाताव्यञ्जकत्वम्
 
निपातानां व्यञ्जकत्वं यथा--
अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥
इत्यत्र चशब्दः । यथा वा--
मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥