2023-06-22 06:16:31 by jayusudindra
This page has been fully proofread once and needs a second look.
ध्वन्यालोकपारिभाषिकपदकोशः
पदे प्रत्ययः कालविशेषाभिधायी रसपरिपोषहेतुः प्रकाशते । अयं
हि गाथार्थ: प्रवासविप्रल गृङ्गारविभावतया विभाव्यमानो
रसवान्।
अलक्ष्यक्रमध्वनौ
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥
'धिग्धिक् शक्रजितम्' इत्यादौ श्लोकार्थे कृत्तद्धितसमासोप-
सर्गाणाम्।
अलक्ष्यक्रमध्वनौ तिङ्गन्तव्यञ्जकत्वम्
तिङ्ङ्क्तस्य यथा--
अवसर रोउं चिअ णिम्मिआइँ मा पुंस मे हअच्छीइं ।
दंसणमेत्तुम्भत्तेहिं जेहिं हिअअं तुह ण णाअम् ॥
[ अपसर रोदितुमेव निर्मिते मा पुंसय हते अक्षिणी मे।
दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदयमेवंरूपं न ज्ञातम् ॥
इति च्छाया]
यथा वा--