This page has not been fully proofread.

ध्वन्यालोकपारिभाषिकपदकोशः
 
17
 
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दलेखाङ्किताः ॥
यादौ । द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगः सोऽपि
व्यक्त्यनुगुणतयैव निर्दोषः। यथा - 'प्रभृश्यत्युत्तरीयत्विषि तमसि
द्वीक्ष्य वीतावृतीन्द्राग्जन्तून्' इत्यादौ । यथा वा - 'मनुष्यवृत्त्या
नुपाचरन्तम्' इत्यादौ ।
 
लक्ष्यक्रमध्वनौ कारकव्यञ्जकत्वम्
 
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥
'सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः' इत्यत्र
 
ङ्कारकशक्तीनाम् ।
 
नक्ष्यक्रमध्वनौ कालस्य व्य्जकत्वम्
कालस्य व्य्जकत्वं यथा--
समविसमणिव्विसेसा समन्तओ म्दमन्दसंआरा ।
अइरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घाः ॥
[सविषमनिर्विशेषाः समन्ततो मन्दमन्दसञ्चाराः ।
अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लङ्घ्याः ॥
इति च्छाया]