This page has been fully proofread once and needs a second look.

16
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घनाः

वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।

कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे

वैदेही तू कथं भविष्यति हहा हा देवि! धीरा भव ॥

इति श्लोके "रामोऽस्मि सर्वं सहे" इत्यत्र 'राम' शब्दः कौशल्या-

दशरथयोः प्रियनन्दनः इतिप्रसिद्धवाच्यार्थे न प्रयुक्तः। परन्तु

पितृवियोग - राज्यच्युति - वनवास - जटाचीरधारणादिविविध-

दुःखसहनाद् अत्यन्तकठोरहृदयः इति व्यङ्येऽर्थे परिणमते ।

अतोऽयं अर्थान्तरसङ्क्रमितवाच्यध्वनेरुदारहरणविशेषो भवति।

 
अलक्ष्यक्रमध्वनौ उपसर्गाणां व्यञ्जकत्वम्
 

विवक्षितान्यपरवाच्यध्वनेः संलक्ष्यक्रमध्वनिः, असंलक्षय-

क्रमध्वनिरिति द्वौ भेदो स्तः । तत्र असंलक्ष्यक्रमध्वनौ बहुप्रकाराः

सन्ति । अयमेव ध्वनिभेद: अलक्ष्यक्रम्ध्वनिरित्यपि कथ्यते ।

अतिमृदुलेऽस्मिन् ध्वनौ वर्णाः, पदानि, वाक्यम्, प्रबन्धः इत्यादयो

ध्वनिव्यञ्ज्काः भवन्ति इति विदुषामभिप्रायः ।
 

वर्तमानसन्दर्भे अलक्ष्यक्रमध्वनौ उपसर्गाणां व्यञजक्त्वं
 

कथमिति अयं प्रकार: विवृणोति ।
 

उपसर्गाणां व्यञ्जकत्वं यथा-

नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः

प्रस्निग्धाः क्वचिदिगुदीफलभिदः सूच्यन्त एवोपलाः ।