This page has been fully proofread once and needs a second look.

ध्वन्यालोकपारिभाषिकपदकोशः
 
एतेषामुदाहरणानि -
 

१) बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।

सम्भूयाम्भोधिमभ्येति महानद्या नगापगाः ॥
 

२)
 
यावदर्थपदां वाचमेवमादाय माधवः ।

विरराम महीयांसः प्रकृत्या मितभाषिणः ॥

३) पृथ्वि ! स्थिरा भव! भुजङ्गम! धारयैनां!

त्वं कूर्मराज ! तदिदं द्वितयं दधीथाः ।

दिक्कुञ्जराः ! कुरुत तत्रितये दिधीर्षां

आर्यः करोति हरकामुकमाततज्यम् ॥
 

४) इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।

शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥

इत्यादयः उक्तभेदानां कानिचनोदाहरणानि ।
 
15
 

 
अर्थान्तरसङ्क्रमितवाच्यध्वनिः
 

अविवक्षितवाच्यध्वनिः, विवक्षितान्यपरवाच्यध्वनिरिति द्वौ

प्रमुखौ ध्वनिभेदौ स्तः । तयोः अविवक्षितवाच्यध्वनौ अर्थान्तर-

सङ्क्रमितवाच्यध्वनिः, अत्यन्ततिरस्कृतवाच्यध्वनिरिति द्वौ

प्रधानभेदौ स्तः । एवंविधयोःअविवक्षितवाच्यध्वनिभेदयॊरन्यतरः

अयमर्थान्तरसङ्क्रमितवाच्यध्वनिः । "अर्थान्तत्रे वाच्यभिन्ने

व्यङ्ग्येऽर्थे संक्रमितं सङ्गमितं विशेषणीकृतम् वाच्यम्" यस्मिन्

ध्वनिप्रभेदे सः अर्थान्तरसङ्क्रमितवाच्यध्वनिरित्यभिधीयते।