This page has not been fully proofread.

ध्वन्यालोकपारिभाषिकपदकोशः
 
"एवं वादिनि देवर्षी पार्श्वे पितुरधोमुखी
लीलाकमलपत्राणि गणयामास पार्वती ॥" इति कालिदासस्य
कुमारसम्भवगतश्लोकः उदाहृतोऽत्र।
 
एतस्मिन् अर्थशक्तिमूलध्वनौ षट्त्रिंशत् भेदाः सम्भवन्ति ।
प्रथममयं त्रिविधः -स्वतः सम्भवी - कविप्रौढोक्तिसिद्धः - कवि-
निबद्धवक्तृप्रौढोक्तिसिद्धश्चेति । एतेषु त्रिष्वपि पुनः एकैकस्मिन्
वस्तुध्वनिः, अलङ्कारध्वनिरिति भेदद्वयं भूत्वा षट् भेदान्
कल्पयति। एतेष्वपि वस्तुना वस्तुव्यङ्ग्यध्वनिः, वस्तुनाऽल-
ङ्कारव्यङ्ग्यध्वनिः, अलङ्कारेण अलङ्कारव्यङ्ग्यध्वनिः,
अलङ्कारेण वस्तुव्यङ्ग्यध्वनिरिति भेदवशात् द्वादशप्रभेदाः
सम्भवन्ति । द्वादशभेदेष्वपि पदगत-वाक्यगत-प्रबन्धगतभेदेन
भेदत्रैविध्यं सम्भवति । तेन अर्थशक्त्युत्थध्वनौ ३६ भेदाः गण्यन्ते ।
अर्थालङ्काराः
 
अर्थप्रधानाः अलङ्काराः अर्थालङ्काराः इति कथ्यन्ते ।
 
14
 
अर्थान्तरन्यासः
 
अर्थान्तरं न्यास्यतेऽत्रेति अर्थान्तरन्यासः । अयमर्थाल-
ङ्कारभेदः ।
 
सामान्यं वा विशेषेण विशेषस्तेन वा यदि ।
कार्यं च कारणेनेदं कार्येण च समर्थ्यते ॥
साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः ॥