This page has not been fully proofread.

अभिधेयः
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
अर्थः
 
अभिधीयते अभिधावृत्त्या बोध्यते इत्यभिधेयः । अस्यैव
वाच्यार्थः, मुख्यार्थः, सङ्केतवान् शब्दार्थः इत्यपि पर्यायवाचिनः ।
 
अभिनेयार्थः
 
सर्वदृश्यकाव्यविशेषाः । रूपकोपरूपकादीनि सर्वाणि ।
 

 
प्रधानमुपकार्योऽर्थः पदार्था ह्युपकारकाः ।
तत्परत्वापदार्थानं तात्पर्य तदितीरितम् ॥
 
13
 
शारदातनयः ।
 
शब्दप्रतिपाद्यः वाच्यः, लक्ष्यः, व्यङ्ग्यः इति त्रिविधः ।
तात्पर्यार्थोऽपि कैश्चित्पृथग्रूपेण गृह्यते ।
 
अर्थशक्तिमूलध्वनिः
 
-
 
-
 
संलक्ष्यक्रम्व्यङ्ग्यध्वनेः भेदविशेषोयमर्थशक्तिमूलध्वनिः ।
अस्यैव अर्थशक्त्युत्थध्वनिः अथवा अर्थशक्त्युद्भवध्वनिरित्यपि
व्यवहारो वर्तते । अत्राभिधया प्रकाशितोऽर्थः कमपि शब्दव्यापारं
विनैव ध्वननव्यापारद्वारा तात्पर्यरूपमर्थान्तरमभिव्यनक्ति । अत
एव ध्वनिकारेणाभिहितमस्य निर्वचनम्
 
अर्थशक्त्युद्भवस्त्वन्यो यत्रार्थः स प्रकाशते ।
 
यस्तात्पर्येण वस्त्वन्यद् व्यनक्त्युक्तिं विना स्वतः ॥ इति ।