This page has been fully proofread once and needs a second look.

12
 
यदि नामायं ध्वनिरभविष्यत् अलङ्कारादिवदस्यापि परिचयोs-

भविष्यत् पूर्वग्रन्थेषु। अतोऽस्य ध्वनेः तादृक्प्रसिद्ध्यभावात्

नास्त्येव ध्वनिरिति प्रथमः अभाववादिपक्षः ।
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

२) पूर्वप्रतिपादितालङ्कारगुणादिपरिष्कृतप्रकारभिन्नस्य ध्वन्यात्म-

काव्यभेदस्य सहृदयहृदयाह्लादकत्वं अर्थात् तादृशचमत्कार-

जनकत्वं नास्तीति हेतोः नास्त्येव ध्वनिरिति द्वितीयः पक्षः।

३) स्याद् यदि ध्वनिर्नाम कश्चन काव्याशोभाहेतुः तर्हि तस्य

उक्तेषु गुणालङ्कारादिष्वेवान्तर्भावः योग्यः अलङ्काराद्यपेक्षया

चमत्कारविशेषाकरणात् । सर्वथा तेभ्यो विलक्षणो नभवत्येव

इति तृतीयः पक्षः ।
 

 
अभिधा
 

अभिधीयते अनेनेत्यभिधा । इयं शब्दनिष्ठा अर्थबोधजन-

क़ताशक्तिः। अत एव अभिधा च सङ्केतितार्थस्य बोधिका

श्ब्दनिष्ठा शक्तिरिति आलङ्कारिकं मतम् ।
 

 
शब्दशक्तयः
 

वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।

व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः ॥
 

 
अभिधानम्
 

१) कथनम् २) नाम