This page has been fully proofread once and needs a second look.

यथा
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

प्रीणितप्रणयि स्वादु काले परिणतं बहु ।

विना पुरुषकारेण फलं पश्यत शाखिनाम् ॥
 
अभावः
 

इति भामहाचार्यः ॥
 

अथ साहित्यदर्पणात् क्वचिद्विशेषः सामान्यात् (१)
 

सामान्यं वा विशेषतः (२) कार्यान्निमित्तं (३) कार्यञ्च (४)

हेतोरथ साम्यात् समम् (५)। अप्रस्तुतात् प्रस्तुतं चेद् गम्यते

पञ्चधा ततः । अप्रस्तुतप्रशंसा स्यात् ॥
 

अप्राकरणिकार्थः

अप्रकृतार्थः ।
 
11
 
-
 
-
 

 
अभावः
भावभिन्नोऽभावः। प्रतियोगिज्ञानाधीनविषयत्वम् अभावः ।
 

प्राधान्येनायं द्विविधः संसर्गाभवः, अन्योन्याभावश्चेति ।

संसर्गाभावे पुनः प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावश्चेति

त्रैविध्यम् वर्तते।
 

 
अभाववादिनः
 

ये 'नास्त्येव ध्वनिरिति' ध्वनेरभावं असत्ताम् प्रकटयन्ति

ते ध्वन्यभाववादिनः । ते त्रिविधाः ।
 

१) काव्यशरीर रूपाभ्यां शब्दार्थाभ्यां, तच्छरीरशोभाकारिभ्यः

गुणालङ्कारादिभ्यः व्यतिरिक्तः केनाप्युच्यमानः को नाम ?