This page has been fully proofread once and needs a second look.

10
 
अपह्नुतिः
 

 
अयमेकः अर्थालङ्कारभेदः । प्रकृतं प्रतिषिध्यान्यस्थापनम-

पह्नुतिरिति साहित्यदर्पणोक्तिः । अपह्नवपूर्वकः अन्यारोपः,

अन्यारोपपूर्वकापह्नवः इति द्विधोऽयमलङ्कारः । यथा -

नेदं नभोमण्डलमम्बुराशिनैताश्च ताराः नवफेनभङ्गाः ।

नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः ॥

अपनुत्यभीष्टा च किञ्चिदन्तर्गतोपमा ।

भूतार्थापह्नवादस्याः क्रियते चाभिधा यथा ॥
 
यथा
 

यथा
-
 

नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः ।

अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥
 

 
अप्रकृतः
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

अधिकृतविषयः आरब्धविषयो वा प्रकृतः । न प्रकृतः
 

अप्रकृतः अप्रक्रान्तविषयः । स एव अप्राकरिणकविषय इत्युच्यते ।
 

 
अप्रतीतिः
 

ज्ञानाभावः ।
 

 
अप्रस्तुतप्रशंसा
 

अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ।

अप्रस्तुतप्रसंशेति सा चैवं कथ्यते यथा ॥