2023-06-22 06:03:39 by jayusudindra
This page has been fully proofread once and needs a second look.
अन्योन्याश्रयः
ध्वन्यालोकपारिभाषिकपदकोशः
9
अन्योन्यमाश्रयतीति अन्योन्याश्रयः । परस्परापेक्षा ।
स.
सच एकस्य ज्ञानादिजननाय यथाऽन्यज्ञानाद्यपेक्षा तथा
तस्य ज्ञानादिजननायेतरस्य ज्ञानद्यपेक्षा इति स्वापेक्षापेक्षित्वनिमित्त-
कोऽयम् । इयं चापेक्षा ज्ञप्त्यपेक्षा, उत्पत्त्यपेक्षा, स्थित्यपेक्षा
चेति त्रिविधा ।
अन्वयव्यतिरेकी
अन्वयव्यतिरेकौ स्तोऽस्येति अन्वयव्यतिरेकी । तत्सत्त्वे
तत्सत्त्वरूपः अन्वयः । तदसत्त्वे तदसत्त्वरूपः व्यतिरॆकः । वह्निः
साध्यम् । धूमश्च साधनम् । वनौ साध्ये धूमस्य अन्वयव्यतिरे-
कव्याप्तिकत्वम् विद्यते। तत्र धूमसत्त्वे वह्निसत्त्वरूपान्वयव्याप्तिः,
वह्निव्यतिरेके च धूमाभावः व्यतिरेकव्याप्तिरित्युभयव्याप्तिसत्त्वा
दन्वयव्यतिरेकी ।
अपभ्रंशनिबद्धम्
''आभीरादिगिरः काव्येष्वपभ्रंशगिरः स्मृताः । शास्त्रेषु
संस्कृतादन्यद-पभ्रंशतयोदितमिति' दण्डिनःवचनम्। अतः
संस्कृतेतरभाषा अपभ्रंशभषा । अपभ्रंशे निबद्धम् काव्यम् अपभ्रंश-
निबद्धम् ।
अपशब्दः
शक्तिवैकल्य-प्रमाद-अलसतादिभिः अन्यथा उच्चारिताः
शब्दाः अपशब्दाः इतीरिताः इति हरिमतम् । (भर्तृहरिमतम् )