2023-06-22 06:02:51 by jayusudindra
This page has been fully proofread once and needs a second look.
वह्निः धूमस्य व्यापकः इति धूमस्तस्य व्याप्तः इत्येवं तयोः भूयः
सहचारं पाकस्थानादौ दृष्ट्वा पश्चात् पर्वतादौ उद्भूयमानशिखस्य
धूमस्य दर्शने तत्र वह्निरस्तीति निश्चीयते ।
अनुरोधः
ध्वन्यालोकपारिभाषिकपदकोशः
अनुसरणम्, आराध्यादेरिष्टसम्पादनेच्छा च।
अनुवादः
१) सिद्धोपदेशः ।
२) विधिविहितस्य अनुवचनमनुवादः इति न्यायशास्त्रम्।
३) वाचारम्भणम् अनुवादः । ४) अनुक्षणकथनम्।
५) पुनः पुनः कथनम्।
अनुस्वानम्
अनुस्वानम्
अनुरणनम्। (घण्टादिश्ब्दजप्रतिध्वन्यात्मकं शब्दसन्तानम-
नुरणनम् अथवा अनुस्वानम् ।) अनुस्वानोपमात्मा ध्वनिः अथवा
अनुरणनरूपव्यङ्ग्यध्वनिः संलक्ष्यक्रमध्वनेः नामान्तरमिदम्।
अनौचित्यम्
उचितस्य भावः - औचित्यम्। तद्भिन्नमनौचित्यम् ।
अन्तर्भावः
अन्तः - मध्ये, भावः - प्रवेशः - अन्तर्भावः । समुदायमध्ये
प्रवेशः अथवा पातः अन्तर्भावः ।