2023-06-19 14:41:59 by ambuda-bot
This page has not been fully proofread.
ध्वन्यालोकपारिभाषिकपदकोशः
7
२) यथा पयः प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्राद्याकारेण
परिणमते एवमेव इन्द्रियादिप्रणाल्यान्तःकरणं बहिर्निसृत्य विषया-
कारेण परिणमते। तादृशपरिणामरूपवृत्त्या च विषयगतमज्ञानं
निवारयतीति अन्तःकरणस्य विषयरूपानुरूपभवनात् अनुभवत्त्व-
मिति योगदर्शने पतञ्जलिः ।
३) अनुभवस्य प्रत्यक्ष अनुमान-उपमान-शाब्दभेदेन चतस्रो विधाः
इति नैयायिकादयः ।
अनुभावः
अनुभावयति उद्बोधयत्यनेनेति अनुभावः ।
''भावं मनोगतं साक्षात् स्वगतं व्यञ्जयन्ति ये तेऽनुभावाः ।"
इति ख्याताः ।
''उद्बुद्धं कारणैः स्वैः स्वैः बहिर्भावं प्रकाशयन् । लोके
यः कार्य्यरूपः सोऽनुभावः काव्यनाट्ययोः ॥" इति दर्पणे ।
"यः खलु लोके सीताचन्द्रादिभिः स्वैः स्वैः आलम्बनो-
द्दीपनकारणैः रामादेरन्तरुद्बुद्धं रत्यादिकं बहिः प्रकाशयन्
कार्यमित्युच्यते । सः काव्यनाट्ययोः पुनरनुभावः" इति चोदाहृतम्
तत्र ।
अनुमानम्
१) अनुमितिकरणमनुमानम् ।
२) अनुमानं तदुक्तं उत्साध्यसाधन्योर्वचः ।