This page has been fully proofread once and needs a second look.

6
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
२) न निर्देश्यं
 
अनिर्देश्यम्। तस्य भावः अनिर्देश्यत्वम्।
 

जाति-गुण-क्रिया-संज्ञाभिर्निर्देष्टुमशक्यम्
 

अनिर्देश्यम्। तस्य भावः अनिर्देश्यत्वम्।
 
अनुक्तनिमित्तः
 

निमित्तं नाम कारणम् । यस्य निमित्तं कारणमनुक्तमन-

भिहितमकथितं सः अनुक्तनिमित्तः ।
 
अनुप्रासः
 

 
अनुप्रासः
वर्णसाम्यमनुप्रासः इति काव्यप्रकाशः ।
 

स्वरवैसादृश्येऽपि व्यञ्जनसदृशत्वं वर्णसाम्यं रसाद्यनुगतः
 
अनुप्रासः ।
 

 
अनुप्रासः ।
"प्रकृष्टो न्यासः अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य

यत् ।" इति साहित्यदर्पणः ।
 

पञ्चविधोऽयमनुप्रासः छेकानुप्रासः वृत्त्यनुप्रासः,
 

श्रुत्यनुप्रासः अन्त्यानुप्रासः लाटानुप्रासश्चेति ।

 
अनभिनेयार्थः
 
I
 

येऽभिनेतुं अयोग्यविषयाः भवन्ति ते सर्वेऽप्यनभिनेयार्थाः

एव । गद्यपद्यादिश्रव्यकाव्यविशेषास्सर्वेऽपि अनभिनेयार्थाः एव ।

यतः ते सर्वेऽपि अभिनेयाः अथवा अभिनययोग्याः न भवन्ति ।
 

 
अनुभवः
 

१) स्मृतिभिन्नं ज्ञानम् ।