This page has not been fully proofread.

अद्भुतरसः
 
भरतमुनिः।
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
अथाद्भुतो नाम विस्मयस्थायीभावात्मको रसः इति
 
दिव्यश्चानन्दजश्चेति द्विधा ज्ञेयोऽद्भुतो रसः ।
 
दिव्यदर्शनजो दिव्यो हर्षाच्चानन्दजो मतः ॥
 
अनन्यात्मा
 
इति विप्रदासः ।
 
अर्थवैचित्र्य इत्यस्य धातोरद्भुतनिर्वहः ।
 
विचित्रा यस्य भवति चित्तवृत्तिस्ततोऽद्भुतः ॥
 
5
 
इति शारदातनयः ।
 
अविद्यमानः अन्यः (पूर्वनिबद्धातिरिक्तः) आत्मा यस्य
तादृशं यद् भवति, तत् । ईदृशः काव्यार्थसंवादः प्रतिबिम्बसदृशः
भवति । एवं विधः काव्यार्थसंवादः सर्वथा त्याज्यः ।
 
अनित्यदोषाः
 
अनुकरणॆन वा अन्येन येन केनचित्प्रकारेण समाधातुं
 
शक्याः दोषाः अनित्यदोषाः । येषां दोषाणां क्वाचित्केनैव दोषत्
ञ्ववं भवति केषुचित्प्रकरणेषु गुणत्वं गृह्यते ते दोषाः अनित्याः ।
तेषां सततदोषत्वं न भवति । अथवा ते सर्वदा हेयाः न भवन्ति ।
 
अनिर्देश्यत्वम्
 
१) इदं तदिति निर्देष्टुं यन्नशक्यते तदनिर्देश्यम् । अनिर्देश्यस्य
भावः अनिर्देश्यत्वम्।