This page has been fully proofread once and needs a second look.

4
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
असावतिशयोक्तिः स्यादलङ्कारोत्तमा यथा ॥ इति
 

दण्डिना प्रोक्तम्।

तेनोक्तमप्युदाहरणम् यथा -
 

मल्लिकामालधारिण्यः सर्वाङ्गीणार्द्रचन्दनाः ।

क्षामवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥
 

 
दण्डिना संशयातिशयोक्तिः, निर्णयातिशयोक्तिः, आश्रयाति-

शयोक्तिः इति अन्येऽपि केचनातिशयोक्तिप्रभेदाः प्रोक्ताः।
 

 
निमित्ततो वचो यत्तु लोकातिक्रान्तगोचरम् ।

मन्यन्तेऽतिशयोक्तिं तामलङ्कारतया यथा ॥
 

 
उदाहरणम् -
 

 
स्वपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिताः ।

अन्वमीयन्त भृङ्गालिवाचा सपच्छ्दद्रुमाः ॥
 

-
भामहः ।
 
-
 

 
अत्यन्ततिरस्कृतवाच्यध्वनिः
 

अयं अविवक्षितवाच्यध्वनेः (लक्षणामूलध्वनेः) द्वयोर्भेद-

योरन्यतरः ।
 

अत्र वाच्यार्थः अत्यन्तं तिरस्कृतः अर्थात् सर्वथा अयोग्यत-

याऽऽनुपात्तः इति कारणेनायं अत्यन्ततिरस्कृतवाच्यध्वनिः

इत्युच्यते ।