This page has been fully proofread once and needs a second look.

104
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
लङ्कारैः, विपरीतालङ्कारैः, इतरविकृतचेष्टादिरूपविभावैः

समुपजायते। ओष्ठदंशनम्, नासास्पन्दनं, गण्डस्पन्दनं, दृष्टेः

संकोचव्याकोचादिकं, स्वरभेदप्रदर्शनम् तदितराणि च अनुभावाः

भवन्ति । आलस्य - निद्रा - तन्द्रा - स्वप्न - अवहित्थ - प्रबोध

-असूयादयः अस्य व्यभिचारिणो भवन्ति । आत्मस्थः परस्थश्चेति

अयं द्विविधो रसः । यदि नटः स्वयं हसति सः आत्मस्थः । यदि

सः अन्यान् हासयति सः परस्थः ।
 

अस्मिन् उत्तम-मध्यम-अधमप्रकृतिभेदमनुसृत्य स्मित

हसित - विहसित - उपहसित - अपहसित - अतिहसितनामभिः
 

षट् प्रकाराः सम्भवन्ति ।
 
-