This page has been fully proofread once and needs a second look.

102
 
सामान्यम्
 

१) समानस्य भावः।
 

२) जातिः।
 

 
सारूप्यम्
 

सर्वथा रूपसाम्यम् सारूप्यम् । द्वयोर्वस्तुनोः तुल्यरूपत्वम् ।
 

 
सिद्धरसप्रख्या
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

सिद्धस्य रसस्य प्रख्या ज्ञानम् सिद्धरसप्रख्येति कथ्यते ।
 

 
सुबन्तव्यञ्जकत्वम्
 

असंलक्ष्यक्रमध्वनौ यदि सुबन्तविधिना रसाद्यभिव्यक्तिर्यदि

भवति तत्र सुबन्तस्य व्यञ्जकत्वमुच्यते ।
 

 
स्थायिभावः
 

यथा नराणां नृपतिः शिष्याणां च यथा गुरुः ।

एवं हि सर्वभावानां भावः स्थायी महानिह ॥
 

इति भरतमुनेर्वचनम् ।
 

विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः ।

आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः ॥

इति धनञ्जयोक्तिः ।
 

सजातीयविजातीयभावान्तरैतिरस्कृतत्वेनोप निबध्यमान

ओरत्यादिः स्थायी ! इति दशरूपकवृत्तिगतं वचनम् ।