This page has not been fully proofread.

ध्वन्यालोकपारिभाषिकपदकोशः
 
भरतस्य मतम् । यद्यपि रुपकलक्षणकारैः एतानि नाटकसन्धि-
सन्ध्यङ्गानीति कथ्यन्ते । भामहादीनामभिप्राये एतानि
महाकाव्यादि पद्यकाव्येषु कथाख्यायिकादिगद्यप्रबन्धेषु च
सम्भवितुमर्हन्ति ।
 
.
 
अङ्गता
 
अङ्गस्य भावः। अप्रधानता। अवयवत्वम् ।
 
अङ्गिभावः
 
प्रधानः भावः ।
 
अङ्गी रसः
 
काव्ये प्रधानः रसः ।
 
अङ्गी (अङ्गिन्)
 
प्रधानः। ''एक एव भवेदङ्गी शृङ्गारो वीर एव वा"
इति वाक्येन महाकाव्यादिषु शृङ्गारो वीरो वा अङ्गीरसः
अथवा प्रधानरसः भवेदिति अन्ये रसाः अङ्गरसाः भवन्त्विति
व अचार्यैरुच्यते ।
 
अतिव्याप्तिः
 
अलक्ष्ये लक्षणगमनम् अतिव्याप्तिः ।
 
3
 
अतिशयोक्तिः
 
विवक्षा या विशेषस्य लोकसीमातिवर्तिनी ।