This page has been fully proofread once and needs a second look.

ध्वन्यालोकपारिभाषिकपदकोशः
 
वर्णनीयतन्मयीभवनयोग्यता ते स्वहृदयसंवादभाजः राहदगा

इति लोचनकारः ।
 
-
 

"अनुशीलनम् शब्दपाठः, अर्थपर्यालोचनम् च । तरयाभ्यास:

आम्रेडनम् । ततो हेतोर्विशदीभूते पूर्वमविशदे सम्प्रति विशदतां

गते मनोमुकुरे मणिमुकुरवदतिस्वच्छे मनसि वर्णनीयं विभावादि

तत्संबन्धिनस्तद्विषयतया तन्मयीभवनस्य तत्तादात्म्यापत्तिरूपस्थ

योग्यता सामर्थ्यमस्ति, ते सहृदयाः इति लक्षणमुक्तम् ।" इति

लोचनकारस्याभिप्रायविवरणं करोति कौमुदीकारः ।
 
101
 

ततः कौमुद्यां " हृदयस्य तादूप्येण सर्वत्रैकत्त्वात्तस्य

यस्मिन्नर्थे संवादोऽस्ति, तत्र संवादकान्तरनैरपेक्ष्येण ये

काव्यार्थमनुभवन्ति, ते विशुद्धतया तत्त्वावधारणनिपुणतया

प्रशस्तहृदयवन्तः सहृदयाः इत्युच्यन्ते ।" इति निर्वचनमपि लभ्यते ।

 
स्वतः सम्भवी
 

यत्र कविः ख्यातवृत्तम् अथवा लोकप्रसिद्धमेव इतिवृत्तं

स्वीकृत्य ध्वनिकाव्यं निर्माति तत्र स्वतस्सम्भवी ध्वनिरिति

ज्ञेयः । अयं संलक्ष्यक्रमव्यङ्ग्यध्वनिभेदस्य अर्थशक्तिमूलध्वनेः

प्रभेदः ।
 

एवं वादिनि देवर्षी पार्श्वे पितुरधोमुखी ।

लीलाकमलपत्राणि गणयामास पार्वती ॥
 

इत्यस्य उदाहरणम् भवति ।