This page has been fully proofread once and needs a second look.

100
 
यदन्येन काव्यवस्तुना सादृश्यम् । तत्पुनः शरीरिणां प्रतिबिम्ब-

वदालेख्याकारवत्तुल्यदेहिवच्च त्रिधा व्यवस्थितम् । किञ्चिद्धि

काव्यवस्तु वस्त्वन्तरस्य शरीरिणः प्रतिबिम्बकल्पम्, अन्यदा-

लेख्यप्रख्यम्, अन्यत्तुल्येन शरीरिणा सदृशम् ।
 

 
संस्कृतम्

संसृष्टि:
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

उत्कृष्टार्थसम्पादनार्थं वा सन्निवेशचारुतासम्पादनार्थं वा

विविधानामलङ्काराणां तिलतण्डुलवत् एकत्र संमेल्य योजनम्

संसृष्टिः इत्युच्यते ।
 

अत एव अलङ्काराणां प्रयोगे "तिलतण्डुलवत् संसृष्टिः,

नीरक्षीरवत् सङ्करः " इति आलङ्कारिकाणामुक्तिः वर्तते ।

 
सूरिणः
 

''ध्वनिपण्डिताः'' ध्वनिप्रस्थाननिपुणाः इति दीधितिकारस्य
 

वचनम्।
 

 
सहृदयत्वम्
 

रसज्ञतैव सहृदयत्वमिति
 

 
सहृदया:
 

"येषां काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे