This page has been fully proofread once and needs a second look.

98
 
ध्वन्यालोकपा
५) सन्धिनिरोधः, ग्रथनं, निर्णयः, परिभाषिकपदकोशः
 
५) सन्धिनिरोधः, ग्रथनं, निर्णयः, परिभा
षणं, धृतिः, प्रसारः,

आनन्दः, समयः, उपगुहनं, भाषणं, पूर्ववाक्यं, काव्यसंहारः,

प्रशस्तिश्च चतुर्दश निर्वहणसन्धेः अङ्गानि भवन्ति।
 

एतेषां चतुष्षष्ट्यङ्गानां लक्षणान्युदाहरणानि च

नाट्यशास्त्रे, दशरूपके, साहित्यदर्पणे तदितरेषु च रूपकलक्षण-

निरूपणग्रन्थेषूपलभ्यते। परन्तु लक्षणकथनावसरे ग्रन्थकर्तृषु

स्वल्पमतभेदास्तु सन्ति।
 

एवंविधसन्धिसन्ध्यङ्गकल्पनेन इष्टार्थस्य रचना,

वृत्तान्तस्यानुपक्षयः, प्रयोगस्य रागप्राप्तिः, गोप्यानां विषयाणां

निगूहनं ( गोप्यगुप्तिः), आश्चर्यवदभिख्यानं, प्रकाश्यानां

प्रकाशनमिति षट् प्रयोजनानि सिद्ध्यन्ति इति मुनेः आचार्य

भरतस्य मतम् ।
 

यद्यपि रुपकलक्षणकारैः एतानि नाटाकसन्धिसन्ध्य-

ङ्गानीति कथ्यन्ते भामहादीनामभिप्रायें एतानि महाकाव्यादिपद्य-

काव्येषु, कथाख्यायि-कादिगद्यप्रबन्धेषु च सम्भवितुमर्हन्ति ।

 
समर्पकत्वम्
 

अन्यस्य कस्यचित् उत्कर्षार्थं आत्मनः सर्वस्वमपि

अन्यसात्करणशीलता समर्पकत्वम् ।
 

उत्कृष्टस्य व्यङ्ग्यार्थस्य प्रतीत्यर्थं वाचकः, तस्यार्थः

वाच्यश्च गौणत्वं यातः । इदमेकं समर्पकत्वस्योदाहरणम् ।