This page has been fully proofread once and needs a second look.

96
 
सत्कविः
 

ध्वनिमार्गनिपुणः कविः । सहृदयहृदयाह्लादिकवित्व-

रचनाचणः। प्रजापतिरिव काव्यजगन्निर्माणकुशलः ।
 

 
सम्भोगशृङ्गारः
 

सम्भोगस्य च परस्परप्रेमदर्शनसुरतविहरणादिलक्षणा
 

प्रकाराः ।
 

 
सन्दानितकम्
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

सन्दानितकं च युग्मकापरपर्यायं द्विपरिसमाप्तक्रियं
 
पद्यद्वयम् ।
 

पद्यद्वयम् ।
 
सन्धिः
 

सन्धिर्नाम योगः । द्वयोरंशयोर्योगेन सन्धिर्जायते । नाट्ये

दशरूपकेषु वस्तुविस्तरणक्रमे पञ्चसन्धयः सम्भवन्ति ।

विषयेऽस्मिन् दशरूपके निगद्यते ।
 
"
 

"अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ।
 

यथासङ्ख्येन जायन्ते मुखाद्याः पञ्चसन्धयः ॥" इति ।

अर्थात् बीजम् - बिन्दुः - पताका - प्रकरी - कार्यम्

इति पञ्चार्थप्रकृतीनां क्रमशः आरम्भः - यत्नः - प्राप्त्याशा -

नियताप्तिः - फलागमः इति पञ्चभिः कार्यावस्थाभिः एकैकशः

योगेन मुखसन्धिः - प्रतिमुखसन्धिः - गर्भसन्धिः - अवमर्शसन्धिः/
 
-