This page has not been fully proofread.

94
 
श्लेष:
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्योभयाश्रितः ।
सर्वदो माधवः पायात् स यो गङ्गामदिधरत् ॥
इति चन्द्रालोकवचनम् ।
 
श्लेषध्वनिः
 
श्लेषालङ्कारप्रधानः ध्वनिः श्लेषध्वनिरित्युच्यते ।
 
श्लोकः
 
पादबद्धः अक्षरसमः तन्त्रीलयसमन्वितः ।
 
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ इति ॥
 
काव्योद्याने प्रथमश्लोकस्य लक्षणमाविष्कृतम् आदिकविना
 
वाल्मीकिना। ततः परं छन्दश्शास्त्रकारैः
 
-
 
पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
षष्ठं गुरु विजानीयात् एतच्छ्लोकस्य लक्षणम् ॥
इति श्लोकाख्यस्य अनुष्टुप् प्रभेदस्य लक्षणं प्रतिपादितम्।
 
श्लोक्यते परिकीर्त्यते पुण्यश्लोकस्य चरितमनेन इति
श्लोकस्य श्लोकत्वं समर्थितं लाक्षणिकैः ।
 
श्लोकत्वम्
 
श्लोकस्य भावः ।