This page has been fully proofread once and needs a second look.

ध्वन्यालोकपारिभाषिकपदकोशः
 
शङ्का - असूया - श्रम - चिन्ता - औत्सुक्य -निद्रा - सुप्त-

स्वप्न - बिब्बोक व्यधि उन्माद अपस्मार जाड्य

मरणादिभिः अभिनयो भवति ।
 

 
शोकः
 
93
 

करुणरसस्य स्थायी भावोऽयम् । इष्टजनवियोगात्,

विभवनशात्, इष्टजनवधात् बन्धनाद्वा तदितरदुःख कारणेभ्यः

जायते अयम् ।
 

'पुत्रादिमरणजन्म वैक्लव्याख्यस्चित्तवृत्तिविशेषः शोकः"

इति जगनाथपण्डितः ।
 

अश्रुपातः, विलापः, मुखवैवर्ण्य, स्वरभेदः, स्रस्तगात्र-

तादयः अस्य अनुभावाः भवन्ति । अत्र रुदितम् आनन्दजम्

आर्तिजम्, ईर्ष्यासमुत्थम् चेति त्रिविधम् ।
 

 
श्रुतिदुष्टः
 

श्रोतुम् उद्वेजकरवर्णवान् शब्दः श्रुतिदुष्टः अथवा श्रुतिकटुः

इति दोषेण स्पृष्टः इत्युच्यते ।
 
.
 

अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः ।

आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा ॥
 

इति श्लोके "कार्तार्थ्यम्" इति शब्दः श्रुतिदुष्टः इति दोषेण
 

परामृष्टः इत्युच्यते ।