Proofing

This page has not been fully proofread.

88
 
देवी स्तोत्राणि
 
इष्टाविशिष्ट मतयोऽपि यया दयार्द्रे
दृष्टया त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्ट-कमलोदर - दीप्तिरिष्टां
 
पुष्टिं कृषीष्ट मम पुष्कर - विष्टरायाः ॥
 
दद्याद्दयानुपवनो द्रविणाम्बु- धारा
मस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे
 
दुष्कर्मधर्ममपनीय चिराय दूरं
नारायणप्रणयनीनयनाम्बुवाहः ॥
गीर्देवतेति गरुडध्वज - सुन्दरीति
शाकम्भरीति शशिशेखर - वल्लभेति ।
सृष्टिस्थिति - प्रलय- केलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥
श्रृत्यै नमोऽस्तु शुभकर्म-फलप्रसूत्यै
 
रत्यै नमोऽस्तु रमणीय - गुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्र - निकेतनायै
 
पुष्ट्यै नमोऽस्तु पुरुषोत्तम - वल्लभायै ॥
 
नमोऽस्तु नालीक - निभाननायै
 
नमोऽस्तु दुग्धोदधि- जन्मभूम्यै ।
 
नमोऽस्तु सोमामृतसोदरायै
 
नमोऽस्तु नारायण वल्लभायै ॥
 
नमोऽस्तु हेमाम्बुजपीठिकायै
 
नमोऽस्तु भूमण्डल - नायिकायै ।
 
१०
 
११
 
१२