Proofing

This page has not been fully proofread.

86
 
देवी स्तोत्राणि
 
मालाद्दशोर्मधुकरीव महोत्पले या
 
सा मे श्रियं दिशतु सागरसंभवायाः ॥
 
आमीलिताक्षमधिगम्य मुदा मुकुन्दं
आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्म नेत्रं
 
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः । ।
 
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
 
हारावलीव हरिनीलमयी विभाति ।
 
कामप्रदा भगवतोऽपि कटाक्षमाला
 
कल्याणमावहतु मे कमलालयायाः ॥
कालाम्बुदालिललितोरसि कैटभारेः
धाराधरे स्पुरति या तडिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्ति :
 
भद्राणि मे दिशतु भार्गवनन्दनायाः ॥
 
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
 
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
 
मन्दालसं च मकरालयकन्यकायाः ॥
 
विश्वामरेन्द्र- पदवीभ्रमदान - दक्षं
 
आनन्द - हेतु - रधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमी-क्षणाध-
मिन्दीवरोदर सहोदर मिन्दिरायाः । ।