2026-05-19 04:09:25 by ambuda-bot
This page has not been fully proofread.
74
देवी स्तोत्राणि
माकन्दद्रुममूल- देशमहिते
माणिक्य - सिंहासने
दिव्यां दीपित- हेमकान्ति-
निवहां-वस्त्रावृतां तां शुभाम् ।
दिव्याकल्पित-दिव्य - देहभरितां
दृष्टिप्रमोदार्पितां
कामाक्षीं कलयामि कल्पलतिकां
काञ्चीपुरीदेवताम् ॥
आधारादि- समस्त -चक्र-निलया-
माद्यन्त-शून्यामुमां
आकाशादि- समस्त - भूत-
निवहाकारा - मशेषात्मिकाम् ।
योगीन्द्रैरति - योगिनी-
शतगणैराराधितामंबिकां
कामाक्षीं कलयामि कल्पलतिकां
काञ्चीपुरी - देवताम् ॥
ह्रीङ्कारप्रणवात्मिकां
प्रणमतां श्रीविद्य-विद्यामयीं
ऐं क्लीं सौं रुचिमन्त्रमूर्ति -
निवहाकारामशेषात्मिकाम् ।
ब्रह्मानन्द-रसानुभूत-
महितां ब्रह्मप्रियवादिनीं
कामाक्षीं कलयामि कल्पलतिकां
काञ्चीपुरीदेवताम् ॥
६
9
८
देवी स्तोत्राणि
माकन्दद्रुममूल- देशमहिते
माणिक्य - सिंहासने
दिव्यां दीपित- हेमकान्ति-
निवहां-वस्त्रावृतां तां शुभाम् ।
दिव्याकल्पित-दिव्य - देहभरितां
दृष्टिप्रमोदार्पितां
कामाक्षीं कलयामि कल्पलतिकां
काञ्चीपुरीदेवताम् ॥
आधारादि- समस्त -चक्र-निलया-
माद्यन्त-शून्यामुमां
आकाशादि- समस्त - भूत-
निवहाकारा - मशेषात्मिकाम् ।
योगीन्द्रैरति - योगिनी-
शतगणैराराधितामंबिकां
कामाक्षीं कलयामि कल्पलतिकां
काञ्चीपुरी - देवताम् ॥
ह्रीङ्कारप्रणवात्मिकां
प्रणमतां श्रीविद्य-विद्यामयीं
ऐं क्लीं सौं रुचिमन्त्रमूर्ति -
निवहाकारामशेषात्मिकाम् ।
ब्रह्मानन्द-रसानुभूत-
महितां ब्रह्मप्रियवादिनीं
कामाक्षीं कलयामि कल्पलतिकां
काञ्चीपुरीदेवताम् ॥
६
9
८