Proofing

This page has not been fully proofread.

68
 
देवी स्तोत्राणि
 
अन्नपूर्णे सदापूर्णे शङ्कर-
प्राण - वल्लभे ।
 
ज्ञान-वैराग्य - सिद्ध्यर्थं
भिक्षां देहि च पार्वति ॥
 
माता च पार्वती देवी
 
पिता देवो महेश्वरः ।
 
बान्धवाः शिवभक्ताश्च
 
स्वदेशो भुवनत्रयम् ॥
 
॥ इति श्री अन्नपूर्णा - अष्टकम् संपूर्णम् ॥
 
१४. श्री नवमङ्गल स्तोत्रम्
 
कात्यायनि महामाये भवानी भुवनेश्वरी ।
संसार सागरे मग्नान् उद्धर श्री कृपामयी ॥
धन्योऽतिभाग्योऽहं तु भावितोऽहमहात्मभिः ।
यत्पृष्टं सुमहत्पुण्यं पुराणं वेदविद्रुतम् ॥
नमो देव्यै प्रवृत्यै च सावित्र्यै सततं नमः ।
 
कल्याण्यै कामदायै च वृद्ध्यै सिध्यै नमो नमः ॥
सच्चिदानन्द-रूपिण्यै संसारारण्यै नमो नमः ।
पञ्चकृत्यै विधात्त्र्यै च भुवनेश्यै नमो नमः ॥
क्रीडा ते लोकरचना सखा ते चिन्मयः शिवः ।
आहारस्ते सदानन्दः वासस्ते हृदयं मम ।
नमः शिवायै कल्याण्यै शान्त्यै पुष्ट्यै नमो नमः ।
भगवत्यै नमो देव्यै रुद्रायै सततं नमः ॥
 
११
 
१२
 

 
m