2026-05-19 04:09:22 by ambuda-bot
This page has not been fully proofread.
58
देवी स्तोत्राणि
कन्याभिः कमनीयकान्ति-
भिरलंकारामलारार्तिका
पात्रे मौक्तिकचित्रपङ्क्ति-
विलसत्कर्पूरदीपालिभिः ।
तत्तत्तालमृदङ्गङ्गीतसहितं
नृत्यत्पदाम्भोरुहं
मन्त्राराधनपूर्वकं सुविहितं
नीराजनं गृह्यताम् ॥
लक्ष्मीर्मौक्तिकलक्षकल्पित-
सितच्छत्रं तु धत्ते रसाद्-
इन्द्राणी च रतिश्च चामरवरे
धत्ते स्वयं भारती ।
वीणामेणविलोचनाः सुमनसां
नृत्यन्ति तद्रागवद्-
भावैराङ्गिकसात्त्विकैः स्फुटरसं
मातस्तदाकर्ण्यताम्॥
ह्रींकारत्रयसंपुटेन मनुनोपास्ये
त्रयीमौलिभि:-
वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ
को वा क्षमेताम्बिके ।
सल्लापाः स्तुतयः प्रदक्षिणशतं
संचार एवास्तु ते
संवेशो मनसः सहस्रमखिलं
त्वत्प्रीतये कल्पताम् ॥
१३
१४
१५
देवी स्तोत्राणि
कन्याभिः कमनीयकान्ति-
भिरलंकारामलारार्तिका
पात्रे मौक्तिकचित्रपङ्क्ति-
विलसत्कर्पूरदीपालिभिः ।
तत्तत्तालमृदङ्गङ्गीतसहितं
नृत्यत्पदाम्भोरुहं
मन्त्राराधनपूर्वकं सुविहितं
नीराजनं गृह्यताम् ॥
लक्ष्मीर्मौक्तिकलक्षकल्पित-
सितच्छत्रं तु धत्ते रसाद्-
इन्द्राणी च रतिश्च चामरवरे
धत्ते स्वयं भारती ।
वीणामेणविलोचनाः सुमनसां
नृत्यन्ति तद्रागवद्-
भावैराङ्गिकसात्त्विकैः स्फुटरसं
मातस्तदाकर्ण्यताम्॥
ह्रींकारत्रयसंपुटेन मनुनोपास्ये
त्रयीमौलिभि:-
वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ
को वा क्षमेताम्बिके ।
सल्लापाः स्तुतयः प्रदक्षिणशतं
संचार एवास्तु ते
संवेशो मनसः सहस्रमखिलं
त्वत्प्रीतये कल्पताम् ॥
१३
१४
१५