2026-05-19 04:09:22 by ambuda-bot
This page has not been fully proofread.
56
लक्ष्मीमुज्ज्वलयामि
देवी स्तोत्राणि
रत्ननिवहोद्धास्वत्तरे मन्दिरे
मालारूपविलम्बितैर्मणि-
मयस्तम्भेषु संभावितैः ।
चित्रैर्हाटकपुत्रिकाकर-
धृतैर्गव्यैर्घृतैर्वर्धितैर्-
दिव्यैर्दीपगणैर्धिया गिरिसुते
संतुष्टये कल्पताम् ॥
ह्रींकारेश्वरि तप्तहाटककृतैः
स्थालीसहस्रैर्भृतं
दिव्यान्नं घृतसूपशाकभरितं
चित्रान्नभेदं तथा ।
दुग्धान्नं मधुशर्करादधियुतं
माणिक्यपात्रे स्थितं
माषापूपसहस्रमम्ब
सफलं नैवेद्यमावेदये ॥
सच्छायैर्वरकेतकीदलरुचा
ताम्बूलवल्लीदलैः
पूगैर्भूरिगुणैः सुगन्धिमधुरैः
कर्पूरखण्डोज्ज्वलैः।
मुक्ताचूर्णविराजितैर्बहु-
विधैर्वक्त्राम्बुजामोदिनैः
पूर्णा रत्नकलाचिका तव
मुदे न्यस्ता पुरस्तादुमे ॥
१०
११
१२
ལ
लक्ष्मीमुज्ज्वलयामि
देवी स्तोत्राणि
रत्ननिवहोद्धास्वत्तरे मन्दिरे
मालारूपविलम्बितैर्मणि-
मयस्तम्भेषु संभावितैः ।
चित्रैर्हाटकपुत्रिकाकर-
धृतैर्गव्यैर्घृतैर्वर्धितैर्-
दिव्यैर्दीपगणैर्धिया गिरिसुते
संतुष्टये कल्पताम् ॥
ह्रींकारेश्वरि तप्तहाटककृतैः
स्थालीसहस्रैर्भृतं
दिव्यान्नं घृतसूपशाकभरितं
चित्रान्नभेदं तथा ।
दुग्धान्नं मधुशर्करादधियुतं
माणिक्यपात्रे स्थितं
माषापूपसहस्रमम्ब
सफलं नैवेद्यमावेदये ॥
सच्छायैर्वरकेतकीदलरुचा
ताम्बूलवल्लीदलैः
पूगैर्भूरिगुणैः सुगन्धिमधुरैः
कर्पूरखण्डोज्ज्वलैः।
मुक्ताचूर्णविराजितैर्बहु-
विधैर्वक्त्राम्बुजामोदिनैः
पूर्णा रत्नकलाचिका तव
मुदे न्यस्ता पुरस्तादुमे ॥
१०
११
१२
ལ