2026-05-19 04:09:21 by ambuda-bot
This page has not been fully proofread.
54
देवी स्तोत्राणि
सर्वाङ्गे घनसारकुङ्कुमघन-
श्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकं च फालफलके
गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले
नयनयोर्दिव्याञ्जनं तेऽञ्चितं
कण्ठाब्जे मृगनाभिपङ्कममलं
त्वत्प्रीतये कल्पताम् ॥
कल्हारोत्पलमल्लिकामरुवकैः
सौवर्णपङ्केरुहैः
जातीचम्पकमालतीव-
कुलकैर्मन्दारकुन्दादिभिः ।
केतक्या करवीरकैर्बहुविधैः
क्लृप्ताः स्रजोमालिका:
संकल्पेन समर्पयामि वरदे
संतुष्टये गृह्यताम् ॥
हन्तारं मदनस्य नन्दयसि
यैरङ्गैरनङ्गोज्ज्वलै-
यैर्भृङ्गावलिनीलकुन्तल-
भरैर्बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब
कोमलतराण्यामोदलीला-
गृहाण्यामोदाय दशाङ्गगुग्गुलु-
घृतैर्धूपैरहं धूपये ॥
७
देवी स्तोत्राणि
सर्वाङ्गे घनसारकुङ्कुमघन-
श्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकं च फालफलके
गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले
नयनयोर्दिव्याञ्जनं तेऽञ्चितं
कण्ठाब्जे मृगनाभिपङ्कममलं
त्वत्प्रीतये कल्पताम् ॥
कल्हारोत्पलमल्लिकामरुवकैः
सौवर्णपङ्केरुहैः
जातीचम्पकमालतीव-
कुलकैर्मन्दारकुन्दादिभिः ।
केतक्या करवीरकैर्बहुविधैः
क्लृप्ताः स्रजोमालिका:
संकल्पेन समर्पयामि वरदे
संतुष्टये गृह्यताम् ॥
हन्तारं मदनस्य नन्दयसि
यैरङ्गैरनङ्गोज्ज्वलै-
यैर्भृङ्गावलिनीलकुन्तल-
भरैर्बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब
कोमलतराण्यामोदलीला-
गृहाण्यामोदाय दशाङ्गगुग्गुलु-
घृतैर्धूपैरहं धूपये ॥
७