2026-05-19 04:09:21 by ambuda-bot
This page has not been fully proofread.
52
देवी स्तोत्राणि
लक्ष्ये योगिजनस्य रक्षितजगज्जाले
विशालक्षणे
प्रालेयाम्बुपटीरकुङ्कमल-
सत्कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेलसलिलैः
शुद्धोदकैर्मन्त्रितैः
स्नानं देवि धिया मयैतदखिलं
संतुष्टये कल्पताम् ।
ह्रींकाराङ्कितमन्त्रलक्षिततनो
हेमाचलात्संचितै
रत्नैरुज्ज्वलमुत्तरीयसहितं
कौसुम्भवर्णांशुकम् ।
मुक्तासंततियज्ञसूत्रममलं
सौवर्णतन्तूद्भवं
दत्तं देवि धिया मयैतदखिलं
संतुष्टये कल्पताम् ॥
हंसैरप्यतिलोभनीयगमने
हारावलीमुज्ज्वलां
हिन्दोलद्युतिहीरपूरिततरे
हेमाङ्गदे कङ्कणे ।
मञ्जीरौ मणिकुण्डले
मकुटमप्यर्धेन्दुचूडामणिं
नासामौक्तिकमङ्गुलीयकटकौ
काञ्चीमपि स्वीकुरु ॥
६
देवी स्तोत्राणि
लक्ष्ये योगिजनस्य रक्षितजगज्जाले
विशालक्षणे
प्रालेयाम्बुपटीरकुङ्कमल-
सत्कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेलसलिलैः
शुद्धोदकैर्मन्त्रितैः
स्नानं देवि धिया मयैतदखिलं
संतुष्टये कल्पताम् ।
ह्रींकाराङ्कितमन्त्रलक्षिततनो
हेमाचलात्संचितै
रत्नैरुज्ज्वलमुत्तरीयसहितं
कौसुम्भवर्णांशुकम् ।
मुक्तासंततियज्ञसूत्रममलं
सौवर्णतन्तूद्भवं
दत्तं देवि धिया मयैतदखिलं
संतुष्टये कल्पताम् ॥
हंसैरप्यतिलोभनीयगमने
हारावलीमुज्ज्वलां
हिन्दोलद्युतिहीरपूरिततरे
हेमाङ्गदे कङ्कणे ।
मञ्जीरौ मणिकुण्डले
मकुटमप्यर्धेन्दुचूडामणिं
नासामौक्तिकमङ्गुलीयकटकौ
काञ्चीमपि स्वीकुरु ॥
६