Proofing

This page has not been fully proofread.

50
 
50
 
देवी स्तोत्राणि
 
१२. मन्त्रमातृकापुष्पमालास्तवः
(शङ्कराचार्यविरचितम्)
 
कल्लोलोल्लसितामृताब्धिलहरीमध्ये
विराजन्मणि-द्वीपे
कल्पकवाटिकापरिवृते
कादम्बवाट्युज्ज्वले ।
रत्नस्तम्भसहस्रनिर्मित-
 
सभामध्ये विमानोत्तमे
 
चिन्तारत्नविनिर्मितं जननि ते
सिंहासनं भावये ॥
 
एणाङ्कानलभानुमण्डललस-
च्छ्रीचक्रमध्ये स्थितां
बालार्कद्युतिभासुरां करतलैः
 
पाशाङ्कशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां
कौसुम्भवस्त्रान्वितां
 
तां त्वां चन्द्रकलावतंसमुकुटां
चारुस्मितां भावये ॥
 
ईशानादिपदं शिवैकफलकं
 
रत्नासनं ते शुभं
 
पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
कारुण्यामृतवारिधे तदखिलं संतुष्टये कल्पताम् ॥