2026-05-19 04:09:18 by ambuda-bot
This page has not been fully proofread.
36
देवी स्तोत्राणि
त्वमेका गतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥
अपारे महादुस्तरेऽत्यन्तघोरे
विपत्सागरे मज्जतां देहभाजाम् ।
त्वमेका गतिर्देवि निस्तारहेतु
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥
नमश्चण्डिके चण्ड- दुर्दण्ड लीला
समुत्कण्ठिता खण्डिताशेषशत्रो ।
त्वमेका गतिर्देवि निस्तारबीजं
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥
त्वमेवाघभावाधृता सत्यवादिन्य
जाताजिताक्रोधनात्क्रोधनिष्ठा ।
इडा पिङ्गला त्वं सुषुम्ना च नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥
नमो देवि दुर्गे शिवे भीमनादे
सरस्वत्यरुन्धत्यमोघ - स्वरूपे ।
विभूतिः शचीकालरात्रिः सती त्वं
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥
शरणमसि सुराणां सिद्धविद्याधराणां
मुनि - मनुजपशूनां दस्युभिस्त्रासितानाम् ।
नृपतिगृहगतानां व्याधिभिः पीडितानां
त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥
इदं स्तोत्रं मया प्रोक्त- मापदुद्धार - हेतुकम् ।
त्रिसन्ध्यमेकसन्ध्यं वा पठनाद् घोरसङ्कटात् ॥
१०
९
५
६
७
देवी स्तोत्राणि
त्वमेका गतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥
अपारे महादुस्तरेऽत्यन्तघोरे
विपत्सागरे मज्जतां देहभाजाम् ।
त्वमेका गतिर्देवि निस्तारहेतु
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥
नमश्चण्डिके चण्ड- दुर्दण्ड लीला
समुत्कण्ठिता खण्डिताशेषशत्रो ।
त्वमेका गतिर्देवि निस्तारबीजं
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥
त्वमेवाघभावाधृता सत्यवादिन्य
जाताजिताक्रोधनात्क्रोधनिष्ठा ।
इडा पिङ्गला त्वं सुषुम्ना च नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥
नमो देवि दुर्गे शिवे भीमनादे
सरस्वत्यरुन्धत्यमोघ - स्वरूपे ।
विभूतिः शचीकालरात्रिः सती त्वं
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥
शरणमसि सुराणां सिद्धविद्याधराणां
मुनि - मनुजपशूनां दस्युभिस्त्रासितानाम् ।
नृपतिगृहगतानां व्याधिभिः पीडितानां
त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥
इदं स्तोत्रं मया प्रोक्त- मापदुद्धार - हेतुकम् ।
त्रिसन्ध्यमेकसन्ध्यं वा पठनाद् घोरसङ्कटात् ॥
१०
९
५
६
७